|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.112. अध्यायः 112
Mahabharata - Udyoga Parva - Chapter Topics
गरुडवेगमसहमानेन गालवेन गुरुदक्षिणानर्पणेनैव स्वप्राणविमोक्षणशङ्कया परिशोचनम् ॥ 1 ॥ गरुडेन गालवंप्रति प्रागेवाभिमतानिवेदनेन अकौशलाभिलपनपूर्वकं ऋषभाचले विश्रम्य पुनर्निवर्तनकीर्तनम् ॥ 2 ॥
Mahabharata - Udyoga Parva - Chapter Text
गालव उवाच। 5-112-0x(3718)(35656)
गरुत्मन्भुजगेन्द्रारे सुपर्ण विनतात्मज ।
नय मां तार्क्ष्य पूर्वेण यत्र धर्मस्य चक्षुषी ॥ 5-112-1(35657)
पूर्वमेतां दिशं गच्छ या पूर्वं परिकीर्तिता ।
देवतानां हि सान्निध्यमत्र कीर्तितवानसि ॥ 5-112-2(35658)
अत्र सत्यं च धर्मश्च त्वया सम्यक्प्रकीर्तितः।
इच्छेयं तु समागन्तुं समस्तैर्दैवतैरहम्।
भूयश्च तान्सुरान्द्रष्टुमिच्छेयमरुणानुज॥ 5-112-3(35659)
नारद उवाच। 5-112-4x(3719)
तमाह विनतासूनुरारोहस्वेति वै द्विजम्।
आरुरोहाथ स मुनिर्गरुडं गालवस्तदा ॥ 5-112-4(35660)
गालव उवाच। 5-112-5x(3720)
क्रममाणस्य ते रूपं दृश्यते पन्नगाशन।
भास्करस्येव पूर्वाह्णे सहस्रांशोर्विवस्वतः ॥ 5-112-5(35661)
पक्षवातप्रणुन्नानां वृक्षाणामनुगामिनाम् ।
प्रस्थितानामिव समं पश्यामीह गतिं खग ॥ 5-112-6(35662)
ससागरवनामुर्वी सशैलवनकाननाम् ।
आकर्षन्निव चाभासि पक्षवातेन खेचर ॥ 5-112-7(35663)
समीननागनक्रं च खमिवारोप्यते जलम्।
वायुना चैव महता पक्षवातेन चानिशम् ॥ 5-112-8(35664)
तुल्यरूपाननान्मत्स्यांस्तथा तिमितिमिङ्गिलान् ।
नागाश्वनरवक्रांश्च पश्याम्युन्मथितानिव ॥ 5-112-9(35665)
महार्णवस्य च रवैः श्रोत्रे मे बधिरे कृते।
न श्रृणोमि न पश्यामि नात्मनो वेद्मि कारणम् ॥ 5-112-10(35666)
शनैः स तु भवात्यातु ब्रह्मवध्यामनुस्मरन् ।
न दृश्यते रविस्तात न दिशो न च खं खग ॥ 5-112-11(35667)
तम एव तु पश्यामि शरीरं ते न लक्षये ।
मणी व जात्यौ पश्यामि चक्षुषी तेऽहमण्डज ॥ 5-112-12(35668)
शरीरं तु न पश्यामि तव चैवात्मनश्च ह।
पदेपदे तु पश्यामि शरीरादग्निमुत्थितम् ॥ 5-112-13(35669)
स मे निर्वाप्य सहसा चक्षुषी शाम्यते पुनः।
तन्नियच्छ महावेगं गमने विनतात्मज ॥ 5-112-14(35670)
न मे प्रयोजनं किंचिद्गमने पन्नगाशन ।
संनिवर्त महाभाग न वेगं विषहामि ते ॥ 5-112-15(35671)
गुरवे संश्रुतानीह शतान्यष्टौ हि वाजिनाम् ।
एकतःश्यामकर्णानां शुभ्राणां चन्द्रवर्चसाम् ॥ 5-112-16(35672)
तेषां चैवापवर्गाय मार्गं पश्यामि नाण्डज।
ततोऽयं जीवितत्यागे दृष्टो मार्गोमयाऽऽत्मनः ॥ 5-112-17(35673)
नैव मेऽस्ति धनं किंचिन्न धनेनान्वितः सुहृत् ।
न चार्थेनापि महता शक्यमेतद्व्यपोहितुम् ॥ 5-112-18(35674)
नारद उवाच। 5-112-19x(3721)
एवं बहु च दीनं च ब्रुवाणं गालवं तदा।
प्रत्युवाच व्रजन्नेव प्रहसन्विनतात्मजः ॥ 5-112-19(35675)
नातिप्रज्ञोऽसि विप्रर्षे योत्मानं त्युक्तुमिच्छसि ।
न चापि कृत्रिमः कालः कालो हि परमेश्वरः ॥ 5-112-20(35676)
किमहं पूर्वमेवेह भवता नाभिचोदितः।
उपायोऽत्र महानस्ति येनैतदुपपद्यते ॥ 5-112-21(35677)
तदेष ऋषभो नाम पर्वतः सागरान्तिके।
अत्र विश्रम्य भुक्त्वा च निवर्तिष्याव गालव ॥ ॥ 5-112-22(35678)
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि द्वादशाधिकशततमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-112-12 मणी वेति इवार्थे वशब्दः ॥ 5-112-14 निर्वाप्य मन्दीकृत्य ॥ 5-112-15 संनिवर्त निवर्तस्व ॥ 5-112-20 योत्मानं संधिरार्षः। कृत्रिमः स्वेच्छासंपाद्यः । कालो मृत्युः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|